मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १७, ऋक् २

संहिता

स भू॑तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा॑नो महि॒मान॒माति॑रत् ।
शूरो॒ यो यु॒त्सु त॒न्वं॑ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुञ्चत ॥

पदपाठः

सः । भू॒तु॒ । यः । ह॒ । प्र॒थ॒माय॑ । धाय॑से । ओजः॑ । मिमा॑नः । म॒हि॒मान॑म् । आ । अति॑रत् ।
शूरः॑ । यः । यु॒त्ऽसु । त॒न्व॑म् । प॒रि॒ऽव्यत॑ । शी॒र्षणि॑ । द्याम् । म॒हि॒ना । प्रति॑ । अ॒मु॒ञ्च॒त॒ ॥

सायणभाष्यम्

सइन्द्रोभूतुभवतु वर्धतामित्यर्थः यइन्द्रः ओजस्तेजोबलंमिमानः कुर्वाणःसन् प्रथमाय प्राथमिका- यधायसे धेट्पाने सोमपानायमहिमानमातिरत् अवर्धयत् तिरतेर्व्यत्ययेनशः यद्योगादनिघातः शूरः शत्रूणांशातयितायइन्द्रः युत्सुपुद्धेपुतन्वं स्वकीयंशरीरंपरिव्यत वर्मणापरिवीतमकरोत् सइन्द्रोमहि- नास्वकीयेनमहिम्नाशीर्षणिस्वशिरसिद्यांप्रत्यमुञ्चत अधारयत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९