मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १७, ऋक् ३

संहिता

अधा॑कृणोः प्रथ॒मं वी॒र्यं॑ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः ।
र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ता॒ः प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॒॑क्पृथ॑क् ॥

पदपाठः

अध॑ । अ॒कृ॒णोः॒ । प्र॒थ॒मम् । वी॒र्य॑म् । म॒हत् । यत् । अ॒स्य॒ । अग्रे॑ । ब्रह्म॑णा । शुष्म॑म् । ऐर॑यः ।
र॒थे॒ऽस्थेन॑ । हरि॑ऽअश्वेन । विऽच्यु॑ताः । प्र । जी॒रयः॑ । सि॒स्र॒ते॒ । स॒ध्र्य॑क् । पृथ॑क् ॥

सायणभाष्यम्

अधापिच हेइन्द्र त्वंप्रथमंमुख्यंहद्वीर्यंसामर्थ्यमकृणोरकरोः किंतत् ब्रह्मणास्तोत्रेणस्तुतिसाधन- भूतेनवेदवाक्येनास्यवीर्यम्यस्तोतुर्जनस्याग्रेपुरतः यत् शुष्मंशत्रूणांशोषकंबलमैरयः उदगमयः जीर- योजरयितारोबधकाअसुराः रथेष्ठेनरथस्थितेनहर्यश्वेनत्वयाविच्युताः स्वस्थानात् च्याविताःसन्तः सध्र्यक् सध्रीचीनाः परस्परंसंगताः पृथक् भीत्यावियुक्ताःसन्तः प्रसिस्रते प्रकर्षेणधावंति स्रुगतौ जु- होत्यादिः बहुलंछन्दसीत्यभ्यासस्येत्वं सध्र्यगितिसहस्यसध्रिरितिसध्र्यादेशः अद्रिसध्र्योरन्तोदात्तत्वे- ननिपातनादुदात्तस्वरितयोरितियणःस्वरितत्वम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९