मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १७, ऋक् ४

संहिता

अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत ।
आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत् ॥

पदपाठः

अध॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ । ई॒शा॒न॒ऽकृत् । प्रऽव॑याः । अ॒भि । अव॑र्धत ।
आत् । रोद॑सी॒ इति॑ । ज्योति॑षा । वह्निः॑ । आ । अ॒त॒नो॒त् । सीव्य॑न् । तमां॑सि । दुधि॑ता । सम् । अ॒व्य॒य॒त् ॥

सायणभाष्यम्

अधापिचप्रवयाः प्रवृद्धान्नः पुरातनोवायइन्द्रः विश्वाभुवनासर्वान् लोकान् मज्मनाबलेनअभि- अभिभूयईशानकृत् आत्मानंसर्वस्याधिपतिंकुर्वन् यद्वा अग्र्यादीन् देवान् तत्तल्लोकाधिपतीन्कुर्वन् अभ्यवर्धत सर्वतःप्रवृद्धोभवत् आदनन्तरं वह्निः जगतांवोढासइन्द्रः ज्योतिषास्वीयेनतेजसारोदसी द्यावापृथिव्यावातनोत् व्याप्नोत् किञ्च तमांसितमोरूपाणि रक्षांसिदुधितादुःस्थानिदुर्गतानिसीव्यन् विस्तारयन् समव्ययत् आवृणोत् जगद्भ्याप्यवर्ततइत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९