मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १७, ऋक् ५

संहिता

स प्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ ।
अधा॑रयत्पृथि॒वीं वि॒श्वधा॑यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ॥

पदपाठः

सः । प्रा॒चीना॑न् । पर्व॑तान् । दृं॒ह॒त् । ओज॑सा । अ॒ध॒रा॒चीन॑म् । अ॒कृ॒णो॒त् । अ॒पाम् । अपः॑ ।
अधा॑रयत् । पृ॒थि॒वीम् । वि॒श्वऽधा॑यसम् । अस्त॑भ्नात् । मा॒यया॑ । द्याम् । अ॒व॒ऽस्रसः॑ ॥

सायणभाष्यम्

सइन्द्रः प्राचीनान् इतस्ततःप्रकर्षेणाञ्चतोगच्छतः सपक्षान् पर्वतान् ओजसाबलेन दृंहत् पक्षच्छे- दंक्रुत्वाभूमौदृढीचकार अचलानकरोदित्यर्थः अपांमेघस्थितानामुदकानामपः स्यन्दनलक्षणंकर्मअध- राचीनंअधः प्रदेशमञ्चतिगच्छतीत्यधराचीनं तादृशमकृणोत् मेघभेदनंकृत्वाअपोभूमावपातयदित्य- र्थः किञ्च विश्वधायसंविश्वस्यधात्रींपृथिवींबलेनाधारयत् माययाप्रज्ञया उपायेनद्यांद्युलोकंअवस्रजः किञ्च विशधायसंविशस्यधात्रींपृथिवींबलेनाधारयत् माययाप्रज्ञया उपायेनद्यांद्युलोकंअवस्रजः स्रंसु- गतौ संपदादिलक्षणोभावेक्विप् अवपतनादस्तभ्रात् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९