मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १७, ऋक् ६

संहिता

सास्मा॒ अरं॑ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ ।
येना॑ पृथि॒व्यां नि क्रिविं॑ श॒यध्यै॒ वज्रे॑ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणि॑ः ॥

पदपाठः

सः । अ॒स्मै॒ । अर॑म् । बा॒हुऽभ्या॑म् । यम् । पि॒ता । अकृ॑णोत् । विश्व॑स्मात् । आ । ज॒नुषः॑ । वेद॑सः । परि॑ ।
येन॑ । पृ॒थि॒व्याम् । नि । क्रिवि॑म् । श॒यध्यै॑ । वज्रे॑ण । ह॒त्वी । अवृ॑णक् । तु॒वि॒ऽस्वनिः॑ ॥

सायणभाष्यम्

सतादृशइन्द्रः अस्मैजगते अरमलं पर्याप्तोबभूव रक्षकत्वेनस्वामीबभूवेत्यर्थः पितासर्वस्यपालकः प्रजापतिः विश्वस्मात् सर्वस्माज्जनुषोजनात् परिततोप्युत्कृष्टाद्वेदसोज्ञानात्तद्विशिष्टं बाहुभ्यांस्वकीया भ्यांबाहुभ्यांयमाकृणोत् तुविष्वणिः बहुकीर्तिः महास्वनोवासइन्द्रः येनज्ञानेनक्रिविंएतन्नामानमसुरं वज्रेणहत्वी स्नात्व्यादयश्चेतित्वी हत्वा ताडयित्वा पृथिव्यांभूमौशयध्यै शयनायदीर्घनिद्रायैन्यवृणक् व्रुणक्तिर्हिंसाकर्मान्यवधीत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०