मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १७, ऋक् ७

संहिता

अ॒मा॒जूरि॑व पि॒त्रोः सचा॑ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भग॑म् ।
कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॒॑ येन॑ मा॒महः॑ ॥

पदपाठः

अ॒मा॒जूःऽइ॑व । पि॒त्रोः । सचा॑ । स॒ती । स॒मा॒नात् । आ । सद॑सः । त्वाम् । इ॒ये॒ । भग॑म् ।
कृ॒धि । प्र॒ऽके॒तम् । उप॑ । मा॒सि॒ । आ । भ॒र॒ । द॒द्धि । भा॒गम् । त॒न्वः॑ । येन॑ । म॒महः॑ ॥

सायणभाष्यम्

हेइन्द्र अमाजूःइव यावज्जीवंगृहेएवजीर्यन्ती पित्रोः सचा मात्रापितृभ्यांसहभवन्ती तयोः शुश्रू- षणपरापतिमलभमानासतीदुहिता समानादात्मनःपित्रोश्चसाधारणात् सदसोगृहात् अधिकरणेचो- पसंख्यानमितिपञ्चमी गृहउपस्थायैवयथाभागंयाचतितथास्तोताहंभगंभजनीयं धनं त्वामिये ईगत्या दिषु लिट्युत्तमइतिव्यत्ययेनात्मनेपदं इयङादेशः त्वांयाचे तत्रदेयंधनंप्रकेतंप्रकर्षेणज्ञातव्यंविश्वज- नीयंकृधिकुरु तत्रउपमासि एतावदिदंधनमितिकुरु आभर तत्रधनंसंपादय भागंभजनीयंधनंतन्वः शरीरायमह्यमितियावत् दद्धिदेहि येनधनेन ममहः स्तोतॄनिमान् आपूजयसि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०