मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १७, ऋक् ८

संहिता

भो॒जं त्वामि॑न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां॑सि॒ वाजा॑न् ।
अ॒वि॒ड्ढी॑न्द्र चि॒त्रया॑ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ॥

पदपाठः

भो॒जम् । त्वाम् । इ॒न्द्र॒ । व॒यम् । हु॒वे॒म॒ । द॒दिः । त्वम् । इ॒न्द्र॒ । अपां॑सि । वाजा॑न् ।
अ॒वि॒ड्ढि । इ॒न्द्र॒ । चि॒त्रया॑ । नः॒ । ऊ॒ती । कृ॒धि । वृ॒ष॒न् । इ॒न्द्र॒ । वस्य॑सः । नः॒ ॥

सायणभाष्यम्

हेइन्द्र भोजंपालयितारंभोजयितारंवात्वांवयंहुवेम ह्वयतेर्लिङिबहुलंछन्दसीतिसंप्रसारणम् हे- इन्द्र त्वंअपांसिकर्माणिवाजानन्नानिददिः दाण् दाने आदृगमहनजनइतिकिप्रत्ययः लिङ्वद्भावाद- भ्यासादिकार्यम् नलोकाव्ययनिष्ठेतिषष्ठीप्रतिषेधः दाताखलु हेइन्द्र चित्रयानानाप्रकारयाऊतीऊत्या- पालनेननोस्मानविड्ढिरक्ष वृषन् कामानांवर्षकहेइन्द्र नोस्मान् वस्यसः अतिशयेनवसुमतः कृधिकुरु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०