मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १८, ऋक् १

संहिता

प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः ।
दशा॑रित्रो मनु॒ष्य॑ः स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥

पदपाठः

प्रा॒तरिति॑ । रथः॑ । नवः॑ । यो॒जि॒ । सस्निः॑ । चतुः॑ऽयुगः । त्रिऽक॒शः । स॒प्तऽर॑श्मिः ।
दश॑ऽअरित्रः । म॒नु॒ष्यः॑ । स्वः॒ऽसाः । सः । इ॒ष्टिऽभिः॑ । म॒तिऽभिः॑ । रंह्यः॑ । भू॒त् ॥

सायणभाष्यम्

रथोरंहणाद्रथोयज्ञः सचनबोनूयतेस्तूयतेत्रेतिनवःस्तुतिमान् सस्निः स्नाशौचे आदृगमहनेतिकिन्प्र- त्ययः शुद्धः एवंविधोयज्ञः प्रातः प्रातःकालेयोजि अयोज्यस्माभिः चतुर्युगः युज्यन्तइतियुगानिग्रावा- णः चत्वारियुगानियस्यसतथोक्तः अध्वर्य्वाद्यृत्विगभिप्रायंवा त्रिकशः तिस्रः कशावाचोमन्द्रमध्यमो- त्कृष्टरूपायस्यसतथोक्तः सवनत्रयाभिप्रायंवा सप्तरश्मिःअश्नुवते व्याप्नुवन्ति कर्माणीतिरश्मयः छन्दां सिसप्तसंख्याकानिगायत्र्यादीनिच्छन्दांसियस्यसतथोक्ताः दशारित्रः अरिभ्यः पापेभ्यस्त्रायन्तइतिअ- रित्राग्रहाः दशसंख्याकाग्रहायस्यसतादृशः चमसाध्वर्य्वभिप्रायंवा मनुष्योमनुष्याणांहितः स्वर्षाः स्वर्गस्यदाता सएवंविधोयज्ञः इष्टिभिः प्रायणीयातिथ्यादिभिः मतिभिर्मननीयैःस्तोत्रैःरंह्यः शब्दनी- योभूदभूत् यद्वा नवोभिवः सस्निः स्नोतेर्द्विर्वचनादि कामानांदातारथः रमन्तेस्मिन्नितिरथः स्यन्दनः प्रातः सवनेचसोमपानार्थंयोजि अश्वैरयोजि कीदृशःचतुर्युगः त्रिकशः तिस्रःकशाय्स्यसतथोक्तः सप्तर- श्मिः सप्तरज्जु दशारित्रोदशवक्रः मनुष्यः मनुष्यहितः स्वर्षाः स्वर्गस्यसङ्गमयिताइन्द्ररथः इष्टिभिः यागैर्मतिभिः स्तोत्रैश्चव्याप्तव्योभवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१