मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १८, ऋक् २

संहिता

सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑ष॒ः स होता॑ ।
अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनन्त॒ सो अ॒न्येभि॑ः सचते॒ जेन्यो॒ वृषा॑ ॥

पदपाठः

सः । अ॒स्मै॒ । अर॑म् । प्र॒थ॒मम् । सः । द्वि॒तीय॑म् । उ॒तो इति॑ । तृ॒तीय॑म् । मनु॑षः । सः । होता॑ ।
अ॒न्यस्याः॑ । गर्भ॑म् । अ॒न्ये । ऊं॒ इति॑ । ज॒न॒न्त॒ । सः । अ॒न्येभिः॑ । स॒च॒ते॒ । जेन्यः॑ । वृषा॑ ॥

सायणभाष्यम्

सयज्ञः सोमोवाअस्माइन्द्रायप्रथमंप्रातःसवनेअरंपर्याप्तोभूत् सचद्वितीयं माध्यन्दिनेसवनेपर्याप्तो- भूत् उतोअपिचसतृतीयं तृतीयेसवनेपर्याप्तोभूत् सर्वत्रकालाध्वनोरितिद्वितीया सयज्ञः सोमोवामनु- षोमनुष्यस्यहोताशुभानांवोढाभवति किञ्च अन्येऋत्विजः अन्यस्याः पृथिव्याः वेदात्मिकायावाचो- वागर्भंसन्तं सोमंयज्ञं वाजनन्त अजनयन्त उप्रसिद्भ्यर्थः वृषाअभिमतफलवर्षकः जेन्योजयसमर्थः सयज्ञः सोमोवाअन्येभिः अन्यैरिन्द्रादिभिःदेवैःसचते सङ्गच्छते सचसमवाये अनुदात्तेत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१