मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १८, ऋक् ३

संहिता

हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे॑न ।
मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ॥

पदपाठः

हरी॒ इति॑ । नु । क॒म् । रथे॑ । इन्द्र॑स्य । यो॒ज॒म् । आ॒ऽयै । सू॒क्तेन॑ । वच॑सा । नवे॑न ।
मो इति॑ । सु । त्वाम् । अत्र॑ । ब॒हवः॑ । हि । विप्राः॑ । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये ॥

सायणभाष्यम्

इन्द्रस्यसंबन्धिनिरथे हरीएतन्नामकावश्वौनुक्षिप्रंकंसुखेनआयैगमनायनवेनान्यैरकृत पूर्वेणवचसा- वेदात्मकेनसूक्तेनसाधनेनयोजंयुनज्मि युजिर् योगे लुङि इरितोवेतिच्लेरङादेशः अत्रास्मिन्यज्ञेबह- वोविप्रामेधाविनः स्तोतारोभवंतिहि तथापिअन्येमद्भ्यतिरिक्तायजमानासोयजमानाः त्वां सु सुष्ठु मोनिरीमन् नितरांमारमयन्तु अतोस्मदीयंयज्ञमागत्यसोमंपिबेतिभावः रीरमन् रमतेर्ण्यन्तस्यलुङि- चङिसन्वद्भावादभ्यासस्येत्वदीर्घौ वाक्यभेदादत्र हियोगाभावेननिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१