मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १८, ऋक् ४

संहिता

आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा॑नः ।
आष्टा॒भिर्द॒शभि॑ः सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ॥

पदपाठः

आ । द्वाभ्या॑म् । हरि॑ऽभ्याम् । इ॒न्द्र॒ । या॒हि॒ । आ । च॒तुःऽभिः॑ । आ । ष॒ट्ऽभिः । हू॒यमा॑नः ।
आ । अ॒ष्टा॒भिः । द॒शऽभिः॑ । सो॒म॒ऽपेय॑म् । अ॒यम् । सु॒तः । सु॒ऽम॒ख॒ । मा । मृधः॑ । क॒रिति॑ कः ॥

सायणभाष्यम्

हेइन्द्र होतृभिराहूयमानस्त्वं द्वाभ्यांहरिभ्यामश्वाभ्यामिमंयज्ञंप्रति सोमपानार्थमायाहि चतुर्भि- र्हरिभिरायाहि तथाषड्भिरागच्छ सोमपेयं पापाने कर्मणिअचोयत् ईद्यतीतीत्वं पातव्यंसोमंप्रतिअ- ष्टाभिरश्वैरायाहि अष्टनोदीर्घादितिविभक्तेरुदात्तत्वं दशभिर्हरिभिरागच्छ सुमख सुयज्ञ सुधनवा हेइन्द्र अयंसोमस्त्वदर्थंसुतः अभिषुतः अतोयज्ञस्यमृधोहिंसाः माकः माकार्षीः करोतेर्लुङिमन्त्रेघसे- त्यादिनाचेर्लुक् गुणेकृते हल्ङ्यादिनासिपोलोपः यद्यपीन्द्रस्यद्वावेवहरीतथापितयोर्विभूतिभेदान्ना- नात्वं अतोश्वबहुत्वमविरुद्धम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१