मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १८, ऋक् ५

संहिता

आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः ।
आ प॑ञ्चा॒शता॑ सु॒रथे॑भिरि॒न्द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेय॑म् ॥

पदपाठः

आ । विं॒श॒त्या । त्रिं॒शता॑ । या॒हि॒ । अ॒र्वाङ् । आ । च॒त्वा॒रिं॒शता॑ । हरि॑ऽभिः । यु॒जा॒नः ।
आ । प॒ञ्चा॒शता॑ । सु॒ऽरथे॑भिः । इ॒न्द्र॒ । आ । ष॒ष्ट्या । स॒प्त॒त्या । सो॒म॒ऽपेय॑म् ॥

सायणभाष्यम्

हेइन्द्र सोमपेयंपातव्यंसोमंप्रतिअर्वाङस्मदभिमुखः सन् विंशतिसंख्याकैरशैरायाहि त्रिंशतात्रिं- शत्संख्यकैर्हरिभिरागच्छ चत्वारिंशताचत्वारिंशत्संख्याकैर्हरिभिर्युजानोयुज्यमानस्त्वंसोमपानंप्रत्या- याहि सुरथेभिः सुरंहणैः सुगमनैः पञ्चशताहरिभिरायाहि तथाषष्ट्याषष्टिसंख्याकैर्हरिभिः सप्तत्या- एतत्संख्याकैर्हरिभिः सोमपानंप्रत्यागच्छ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१