मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १८, ऋक् ६

संहिता

आशी॒त्या न॑व॒त्या या॑ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा॑नः ।
अ॒यं हि ते॑ शु॒नहो॑त्रेषु॒ सोम॒ इन्द्र॑ त्वा॒या परि॑षिक्तो॒ मदा॑य ॥

पदपाठः

आ । अ॒शी॒त्या । न॒व॒त्या । या॒हि॒ । अ॒र्वाङ् । आ । श॒तेन॑ । हरि॑ऽभिः । उ॒ह्यमा॑नः ।
अ॒यम् । हि । ते॒ । शु॒नऽहो॑त्रेषु । सोमः॑ । इन्द्र॑ । त्वा॒ऽया । परि॑ऽसिक्तः । मदा॑य ॥

सायणभाष्यम्

अशीत्या अशीतिसंख्याकैश्वैः सोमपानार्थमर्वाङस्मदभिमुखःसन् आयाहि नवत्याएतत्संख्याकैरश्वैरा- गच्छ शतेनशतसंख्याकैर्हरिभिरुह्यमानोधार्ययाणस्त्वंआयाहि हेइन्द्र हियस्मात्तेमदायहर्षायशुनहोत्रे- षु सुखेनहूयतेसोमोयेभिरितिशुनहोत्राः पात्रविशेषाः तेषुअयंसोमः त्वाया त्वत्कामनयापरिषिक्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२