मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १८, ऋक् ७

संहिता

मम॒ ब्रह्मे॑न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी॑ धु॒रि धि॑ष्वा॒ रथ॑स्य ।
पु॒रु॒त्रा हि वि॒हव्यो॑ ब॒भूथा॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥

पदपाठः

मम॑ । ब्रह्म॑ । इ॒न्द्र॒ । या॒हि॒ । अच्छ॑ । विश्वा॑ । हरी॒ इति॑ । धु॒रि । धि॒ष्व॒ । रथ॑स्य ।
पु॒रु॒ऽत्रा । हि । वि॒ऽहव्यः॑ । ब॒भूथ॑ । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥

सायणभाष्यम्

हेइन्द्र ममब्रह्मअस्मदीयामेवस्तुतिमच्छाभिलक्ष्यायाहि विश्वाव्याप्तौहरीरथस्यधुरियुगप्रान्तेधि- ष्व संयोजय पुरुत्रापुरुभिर्बहुभिर्यजमानैः त्वंविहव्योविविधंह्वातव्योबभूथ बभूविथ बभूथाततंथ- जगृभ्यववर्थेतिनिपातनादिडभावः हिप्रसिद्धः हेशूर अस्मिन् सवनेयज्ञेमादयस्व सोमपाएनहृष्टो- भव ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२