मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १८, ऋक् ८

संहिता

न म॒ इन्द्रे॑ण स॒ख्यं वि यो॑षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत ।
उप॒ ज्येष्ठे॒ वरू॑थे॒ गभ॑स्तौ प्रा॒येप्रा॑ये जिगी॒वांसः॑ स्याम ॥

पदपाठः

न । मे॒ । इन्द्रे॑ण । स॒ख्यम् । वि । यो॒ष॒त् । अ॒स्मभ्य॑म् । अ॒स्य॒ । दक्षि॑णा । दु॒ही॒त॒ ।
उप॑ । ज्येष्ठे॑ । वरू॑थे । गभ॑स्तौ । प्रा॒येऽप्रा॑ये । जि॒गी॒वांसः॑ । स्या॒म॒ ॥

सायणभाष्यम्

इन्द्रेणसहमेममसख्यंयष्टृयष्टव्यलक्षणंसख्यंनवियोषत् कदाचिदपिनवियुज्यतां यौतेर्लेटिसिब्बहु- लमितिसिप् अडागमः अस्येन्द्रस्यदक्षिणाइन्द्रकर्तृकं दानमस्मभ्यंदुहीत अभिमतफलं दुग्धां दुहेर्लिङि- रूपं ज्येष्ठेअतिशयेनप्रशस्येवरूथे आपदांवारकेवरणीयेवागभस्तौ बाहौउपसमीपेवर्तिनः स्याम इन्द्र- स्यहस्तस्पर्शयोग्याभवेमेत्यर्थः किञ्च प्रायेप्राये सोमपानार्थमिन्द्रस्ययज्ञशालायांप्रवेशेप्रवेशे जिगीवां- सः शत्रूणांजेतारोभवेम यद्वा प्रायेप्रायेप्रकर्षेणईयतेगम्यतेयोद्धृभिरितिप्रायंयुद्धं तस्मिन्युद्धेजिगीवां- सः शत्रून् जितवन्तोभवम ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२