मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १९, ऋक् १

संहिता

अपा॑य्य॒स्यान्ध॑सो॒ मदा॑य॒ मनी॑षिणः सुवा॒नस्य॒ प्रय॑सः ।
यस्मि॒न्निन्द्र॑ः प्र॒दिवि॑ वावृधा॒न ओको॑ द॒धे ब्र॑ह्म॒ण्यन्त॑श्च॒ नरः॑ ॥

पदपाठः

अपा॑यि । अ॒स्य । अन्ध॑सः । मदा॑य । मनी॑षिणः । सु॒वा॒नस्य॑ । प्रय॑सः ।
यस्मि॑न् । इन्द्रः॑ । प्र॒ऽदिवि॑ । व॒वृ॒धा॒नः । ओकः॑ । द॒धे । ब्र॒ह्म॒ण्यन्तः॑ । च॒ । नरः॑ ॥

सायणभाष्यम्

सुवानस्यसोमाभिषवंकुर्वाणस्यमनीषिणः प्राज्ञस्ययजमानस्यसंबन्धिनः प्रयसः प्रीङ् तर्पणे असुन् प्रीतिकरस्यअस्यसोमलक्षणस्यान्धसः अन्नस्यमदायअपायि एतदन्नमिन्द्रेणपीतं इत्यर्थः यद्वा अपायी तिपातेर्व्यत्ययोबहुलमितिचिण् कर्तरिभवति छन्दसिलुङ्लङ्लिटइतिलोडर्थेलुङ् प्रीतिकरस्यान्धसः मदायअपायि शेषविवक्षयाकर्मणिषष्ठी इन्द्रः सोमंपिबतु प्रदिविपुराणेयस्मिन् सोमलक्षणेन्धसिवावृ- धानोवर्धमानइन्द्रः ओकोदधे सेव्यतयनिवासंचकार किञ्च ब्रह्मण्यन्तः इन्द्रायस्तोत्रमिच्छन्तः नरः कर्मणांनेतारऋत्विजः यस्मिन्निवासंदधिरे तदेतदपायीति पूर्वेणान्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३