मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १९, ऋक् २

संहिता

अ॒स्य म॑न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत् ।
प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मन्त ॥

पदपाठः

अ॒स्य । म॒न्दा॒नः । मध्वः॑ । वज्र॑ऽहस्तः । अहि॑म् । इन्द्रः॑ । अ॒र्णः॒ऽवृत॑म् । वि । वृ॒श्च॒त् ।
प्र । यत् । वयः॑ । न । स्वस॑राणि । अच्छ॑ । प्रयां॑सि । च॒ । न॒दीना॑म् । चक्र॑मन्त ॥

सायणभाष्यम्

अस्यमध्वः तृतीयार्थेषष्ठी अनेनमदकरेणसोमेनमन्दानोहृष्यम् वज्रहस्तः वज्रयुक्तोहस्तोयस्यस- इन्द्रः अर्णोवृतंउदकस्यावरकंउदकेनावृतंवा अहिंव्ऋत्रंमेघंवाविवृश्चत् विशेषेणाच्छिन्त् ओव्रश्चूछेदने तौदादिकः लङि ग्रहिज्यादिनासंप्रसारणम् किञ्च यद्यदाअहिभेदनेजाते नदीनांप्रयांसिप्रीणयितॄणिज- लानिअच्छसमुद्रमभिलक्ष्यप्रचक्रमन्त गन्तुमुपाक्रमन् तत्रदृष्टान्तः—वयोन यथापक्षिणः स्वसराणि सुष्ठुअर्यन्तेप्राप्यन्तेइतिस्वराणिस्वसराणि कुलायाः तानभिलक्ष्य गच्छन्तितद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३