मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १९, ऋक् ३

संहिता

स माहि॑न॒ इन्द्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रम् ।
अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत् ॥

पदपाठः

सः । माहि॑नः । इन्द्रः॑ । अर्णः॑ । अ॒पाम् । प्र । ऐ॒र॒य॒त् । अ॒हि॒ऽहा । अच्छ॑ । स॒मु॒द्रम् ।
अज॑नयत् । सूर्य॑म् । वि॒दत् । गाः । अ॒क्तुना॑ । अह्ना॑म् । व॒युना॑नि । सा॒ध॒त् ॥

सायणभाष्यम्

माहिनोमहनीयः पूजनीयः यद्वा महिमोपेतः अहिहाअहिंमेघंहतवानिन्द्रःब्रह्मश्रूणवृत्रेषुक्विप् बहु- लंछन्दसीतिभूतकालेक्विप् सइन्द्रःअपामर्णःऋगतौ स्रोतोलक्षणंप्रवाहंसमुद्रमच्छाभिलक्ष्यप्रैरयत् किञ्च सइन्द्रः अङ्गिरसांबिलान्तर्वर्तिनीनामावृतानांगवांलाभायसूर्यमजनयत् ततःगाः पणिभिरप- हृतागाः विददलभत विदिर् लाभे लुङिइरितोवेतिच्लेरङादेशः वाक्यभदादनिघातः तथाक्तुनाते- जसाअह्नांदिवसानांवयुनानिप्रज्ञानानिप्रकाशान् साधत् असाधयत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३