मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १९, ऋक् ४

संहिता

सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो॑ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम् ।
स॒द्यो यो नृभ्यो॑ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्य॒ः सूर्य॑स्य सा॒तौ ॥

पदपाठः

सः । अ॒प्र॒तीनि॑ । मन॑वे । पु॒रूणि॑ । इन्द्रः॑ । दा॒श॒त् । दा॒शुषे॑ । हन्ति॑ । वृ॒त्रम् ।
स॒द्यः । यः । नृऽभ्यः॑ । अ॒त॒साय्यः॑ । भूत् । प॒स्पृ॒धा॒नेभ्यः॑ । सूर्य॑स्य । सा॒तौ ॥

सायणभाष्यम्

सइन्द्रोदाशुषेह्विर्दत्तवतेमनवेमनुष्याययजमानायपुरूणिबहूनिअप्रतीन्युत्कृष्टानिधनानि दाश- त् ददाति किञ्च वृत्रमसुरंहन्ति कीदृश यइन्द्रः सूर्यस्यसातौ सातिःसंभजनं सूर्यसंभजनविवयभूतेपस्पृ धानेभ्यः अहमेवप्रथमंसूर्यंप्राप्नुयामितिस्पर्धमानेभ्यः नृभ्यः स्तोतृभ्यः सद्यस्तदानीमेवअतसाय्यस्त त्प्राप्तिहेतुभूतःसन् समाश्रयणीयोभूत् अभूत् यद्वा सूर्यस्यसातौ षोन्तकर्मणि अधिकरणेक्तिन् सूर्यस्य संबन्धिनियुद्धेपस्पृधानेभ्यः सूर्येणसहस्पर्धमानेभ्यःअतसाय्योभूत् सततंगमनीयोभवत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३