मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १९, ऋक् ५

संहिता

स सु॑न्व॒त इन्द्र॒ः सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान् ।
आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ॥

पदपाठः

सः । सु॒न्व॒ते । इन्द्रः॑ । सूर्य॑म् । आ । दे॒वः । रि॒ण॒क् । मर्त्या॑य । स्त॒वान् ।
आ । यत् । र॒यिम् । गु॒हत्ऽअ॑वद्यम् । अ॒स्मै॒ । भर॑त् । अंश॑म् । न । एत॑शः । द॒श॒स्यन् ॥

सायणभाष्यम्

स्तवान् एतशेनस्तूयमानः देवोद्योतमानःसइन्द्रः सुन्वतेसोमाभिषवंकुर्वतेमर्त्यायमनुव्यायएतशा यसूर्यमारिणक् एतशेनस्पर्धमानंसूर्यंबलेनारेचयत् तथाचनिगमः—प्रैतशंसूर्येपस्पृधानंसौवश्व्येसुष्वि मावार्दंद्रइति । यद्यस्मात् एतशः सौवश्व्योराजादशस्यन् यजमानः अस्माइन्द्रायगुहदवद्यंप्रच्छन्नाव द्यंरयिंसोमरूपमाभरत् सम्पादयामास तत्रद्रुष्टान्तः—अंशंन यथापिता अंशं भागंपुत्रायभरतितद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३