मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १९, ऋक् ६

संहिता

स र॑न्धयत्स॒दिव॒ः सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य ।
दिवो॑दासाय नव॒तिं च॒ नवेन्द्र॒ः पुरो॒ व्यै॑र॒च्छम्ब॑रस्य ॥

पदपाठः

सः । र॒न्ध॒य॒त् । स॒ऽदिवः॑ । सार॑थये । शुष्ण॑म् । अ॒शुष॑म् । कुय॑वम् । कुत्सा॑य ।
दिवः॑ऽदासाय । न॒व॒तिम् । च॒ । नव॑ । इन्द्रः॑ । पुरः॑ । वि । ऐ॒र॒त् । शम्ब॑रस्य ॥

सायणभाष्यम्

सदिवः दीप्तियुक्तः सइन्द्रः सारथये आत्मनःसारथ्यंकुर्वतेकुत्सायराजर्षयेशुष्णंशोषयतिसर्वमिति शुष्णः कश्चिदसुरः तमशुषंनकेनापिशोषणीयंकुयवंएतन्नामानमसुरंरन्धयत् रध्यतिर्वशगमने वशमन यत् यद्वा रधहिंसासंराध्योरित्यस्यण्यन्तस्यरधिजभोरचीतिनुम् अवधीत् किञ्च सइन्द्रः दिवोदासाय एतन्नामकायराज्ञेशंबरस्यासुरस्यनवनवतिंपुरः व्यैरत् विदारितवान् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४