मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १९, ऋक् ७

संहिता

ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जय॑न्तः ।
अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥

पदपाठः

ए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ॑म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना॑ । वा॒जय॑न्तः ।
अ॒श्याम॑ । तत् । साप्त॑म् । आ॒शु॒षा॒णाः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥

सायणभाष्यम्

हेइन्द्र श्रवस्या सुपांसुलुगितितृनीयायाःपूर्वसवर्णदीर्घः अन्नेच्छयावाजयन्तः त्वांबलिनकुर्वन्तः यद्वा श्रवस्यायशःकामनया वाजयन्तोन्नमिच्छन्तः इच्छायामपिणिच् दृश्यते अश्वायन्तोगव्यन्तोवाज यन्तइतिक्यजन्तत्वेचित्प्रातिपदिकस्यान्तोदात्तत्वंस्यात् वाजयन्तःश्तक्रतुमितियथा तादृशावयंतेएव तुभ्यमेव उचथंस्तोत्रं त्मना आत्मनास्वयमेव नअहेम इदानींप्रापयेम अहिगतौ नसम्प्रत्यर्थे आशुषा- णाः अश्नोतेःकानचिव्यत्ययोबहुलमितिलिट्यपिविकरणद्वयं उप्रत्ययः त्वामश्नुवानाः वयंतदभिलषितं तत्साप्तंसप्तपुरुषसंबन्धि साप्तपदीनंसख्यं अश्याम व्याप्नुयाम अदेवस्य देवानिन्द्रादीनजानतः पीयोः पीयतिर्हिंसकर्मा हिंसकस्यासुरस्यवधः वध्यन्तेशत्रवोनेनेतिवधरायुधंननमः तत् अधोनमय ननमः णमुप्रह्वत्वे ण्यंतस्यलुङिचङिरूपं मितांह्रस्वइतिह्रस्वः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४