मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १९, ऋक् ८

संहिता

ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः ।
ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥

पदपाठः

ए॒व । ते॒ । गृ॒त्स॒ऽम॒दाः । शू॒र॒ । मन्म॑ । अ॒व॒स्यवः॑ । न । व॒युना॑नि । त॒क्षुः॒ ।
ब्र॒ह्म॒ण्यन्तः॑ । इ॒न्द्र॒ । ते॒ । नवी॑यः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । सु॒म्नम् । अ॒श्युः॒ ॥

सायणभाष्यम्

शूरबलवन् हेइन्द्र गृत्समदाः अत्रयास्कः—गृत्समदोगृत्समदनः गृत्सइतिमेधाविनाम गृणातेः स्तुतिकर्मणइति । तथाविधाःमन्ममननीयं स्तोत्रंतीवतुभ्यमेव तक्षुः ततक्षुःचक्रुःतत्रदृष्टान्तः—अवस्य वोन अवः गत्यर्थादवतेरसुनिरूपमवइति अवोगमनमिच्छन्तः पुमांसोवयुनानि मार्गान् यथाकुर्व- न्तितद्वत् किञ्च नवीयः सुपांसुलुगितिषष्ठ्यालुक् नवीयसोनवतरस्यते तवब्रह्मण्यन्तः स्तोत्रंकर्तुमि च्छन्तः गृत्समदाः सुक्षितिमिषं शोभननिवासोपेतमन्नंऊर्जंबलं सुम्नं सुखं चाश्युः प्राप्नुयुः एकस्मिन् गृत्समदेबहुवचनंपरोक्षनिर्देशश्च ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४