व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु ण॒ः प्र भ॑रामहे वाज॒युर्न रथ॑म् ।
वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन् ॥
व॒यम् । ते॒ । वयः॑ । इ॒न्द्र॒ । वि॒द्धि । सु । नः॒ । प्र । भ॒रा॒म॒हे॒ । वा॒ज॒ऽयुः । न । रथ॑म् ।
वि॒प॒न्यवः॑ । दीध्य॑तः । म॒नी॒षा । सु॒म्नम् । इय॑क्षन्तः । त्वाऽव॑तः । नॄन् ॥
वयंतेवयइतिनवर्चंनवमंसूक्तम् गार्त्समदंत्रैष्टुभमैन्द्रम् वयन्तइत्यनुक्रान्तम् सूक्तविनियोगोलिङ्गा दवधार्यताम् ।
हेइन्द्र तेत् भ्यंवयंवयः सोमलक्षणमन्नं प्रभरामहे प्रकर्षेणसंपादयामः तत्रदृष्टान्तः—वाजयुर्नय थान्नमात्मनइच्छन्पुमान् रथंशकटंसंपादयतितद्वत् एवंहविःसंपादकान्नोस्मान् सुसुष्ठु विद्धिजानीहि विदेर्ज्ञानार्थस्यलोटिरूपं वाक्यादित्वादनिघातः किंकुर्वन्तोवयं विपन्यवः तवस्तोत्रं कुर्वाणाः मनी षामनसईषयास्तुत्यादीध्यतोदीप्यमानाः दीधीङ्दीप्तिदेवनयोः व्यत्ययेनशतृ त्वावतः युष्मदस्मद्भ्यां छन्दसिसादृश्यौपसंख्यानमितिवतुप् त्वत्सदृशान् नॄन् नेतॄन् अग्न्यादीन्सुम्नं सुखमियक्षन्तः याचमा- नाः यद्वा सुम्नंसुखेननॄन् नेतॄन् अग्न्यादीन् देवान् इयक्षन्तः इयक्षतिर्गतिकर्मा हविषातान्प्राप्नुवन्तोवयं भरमहइतिसमन्वयः ॥ १ ॥