मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २०, ऋक् २

संहिता

त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा॑य॒तो अ॑भिष्टि॒पासि॒ जना॑न् ।
त्वमि॒नो दा॒शुषो॑ वरू॒तेत्थाधी॑र॒भि यो नक्ष॑ति त्वा ॥

पदपाठः

त्वम् । नः॒ । इ॒न्द्र॒ । त्वाभिः॑ । ऊ॒ती । त्वा॒ऽय॒तः । अ॒भि॒ष्टि॒ऽपा । अ॒सि॒ । जना॑न् ।
त्वम् । इ॒नः । दा॒शुषः॑ । व॒रू॒ता । इ॒त्थाऽधीः॑ । अ॒भि । यः । नक्ष॑ति । त्वा॒ ॥

सायणभाष्यम्

हेइन्द्र त्वंत्वाभिःत्वदीयाभिरूती ऊतिभिः पालनादिभिःनोस्मान् पाहि किञ्च त्वायतः सुपआ- त्मनः क्यच् शतुरनुमइतिविभक्तेरुदात्तत्वं त्वत्कामान् जनान् अभिष्टिपा सुपांसुलुगितिसोराकारः अभिश्ख्टयोभिगन्तारः शत्रवः तेभ्यः पातारक्षकोसिभवसि दाशुषोहविर्दत्तवतोयजमानस्यत्वमिनः ईश्वरःखलु वरूता ग्रसितस्कभितेतिनिपातनादीकारस्यऊकारः बाधकानांनिवारकोसि किञ्च त्वंत- स्यस्तोतुरित्थाधीः एवंविधोपद्रवोपशमरूपकर्मासि यस्त्वात्वामभिनक्षति हविषापरिचरति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५