मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २०, ऋक् ३

संहिता

स नो॒ युवेन्द्रो॑ जो॒हूत्र॒ः सखा॑ शि॒वो न॒राम॑स्तु पा॒ता ।
यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती पच॑न्तं च स्तु॒वन्तं॑ च प्र॒णेष॑त् ॥

पदपाठः

सः । नः॒ । युवा॑ । इन्द्रः॑ । जो॒हूत्रः॑ । सखा॑ । शि॒वः । न॒राम् । अ॒स्तु॒ । पा॒ता ।
यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती । पच॑न्तम् । च॒ । स्तु॒वन्त॑म् । च॒ । प्र॒ऽनेष॑त् ॥

सायणभाष्यम्

युवातरुणोयष्टृणांपापस्यशमयितावा जोहूत्रः स्तोतृभिराह्वातव्यः होतव्योवासखासखिभूतः सुखकर सइन्द्रः नरांनृशब्दस्यामछान्दसोगुणः नरशब्दस्यवाआमि आगमानुशासनस्यानित्यत्वान्नु डभावः कर्मनेतॄणां नोस्माकंपाताअस्तु पालकोभवतुयः शस्त्राणिशंसन्तंयश्च शशमानं शशप्लुतगतौ क्रियाःकुर्वाणं पुरोडाशादिहवींषिपचन्तं स्तुवन्तंचसामभिः स्तोत्रं कुर्वाणंस्तुतशस्त्रयोः प्रगीताप्रगीत मन्त्रसाध्यत्वेनभेदस्यप्रतिपादितत्वादत्रपृथङ्गिर्देशः एवंयजमानंऊती ऊत्यारक्षणेनप्रणेषत् नयते र्लेटि सिब्बहुलमितिसिप् अडागमः तिङिचोदात्तवतीतिगतेर्निघातः कर्मणापारंप्रापयत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५