मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २०, ऋक् ४

संहिता

तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑ ।
स वस्व॒ः कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः ॥

पदपाठः

तम् । ऊं॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । तम् । गृ॒णी॒षे॒ । यस्मि॑न् । पु॒रा । व॒वृ॒धुः । शा॒श॒दुः । च॒ ।
सः । वस्वः॑ । काम॑म् । पी॒प॒र॒त् । इ॒या॒नः । ब्र॒ह्म॒ण्य॒तः । नूत॑नस्य । आ॒योः ॥

सायणभाष्यम्

तमुतमेवेन्द्रंस्तुषेस्तौमि तथातमिन्द्रंगृणीषेशंसामि उभयत्रपुरुषव्यत्यय्ः यस्मिन्निन्द्रेपुरापूर्वं स्तो तारोवावृधुःप्रवृद्धाअभवन् शाशदुश्च शत्रून् हिंसितवन्तश्च शदॢशातने लिटि तुजादीनामित्यभ्यासस्य दीर्घः इयानः स्तोतृभिर्याच्यमानः सइन्द्रः ब्रह्मण्यतः स्तोत्रमिच्छतोनूतनस्यायोर्मनुष्यस्ययजमानस्य वस्वः वसुनःकाममभिलाषंपीपरत् अभिलषितफलदानेनपूरयतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५