मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २०, ऋक् ५

संहिता

सो अङ्गि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिन्द्रो॑ गा॒तुमि॒ष्णन् ।
मु॒ष्णन्नु॒षस॒ः सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥

पदपाठः

सः । अङ्गि॑रसाम् । उ॒चथा॑ । जु॒जु॒ष्वान् । ब्रह्मा॑ । तू॒तो॒त् । इन्द्रः॑ । गा॒तुम् । इ॒ष्णन् ।
मु॒ष्णन् । उ॒षसः॑ । सूर्ये॑ण । स्त॒वान् । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥

सायणभाष्यम्

अङ्गिरसांसंबन्धीनिउचथाउक्थानिजुजुष्वान् जुषीप्रीतिसेवनयोरित्यस्यलिटिक्वसौरूपं सेवमा- नः सइन्द्रः गातुंपणिभिरुपद्रुतानामङ्गिरसांमार्गमिष्णन् प्रेरयन् ब्रह्म तेषां स्तोत्रंकामप्रदानेन तूतोत् तुविद्धावित्यस्यलङि बहुलंछन्दसीतिविकरणस्यश्लुः अवर्धयत् किञ्च स्तवान् स्तोत्रुभिः स्तूयमानः सूर्येणस्वात्मभूतेनौषसोमुष्णन् अपहरन् उदितेहिसूर्येउषसोव्यावर्तन्ते तादृशः सइन्द्रः अश्नस्य अश्नुते स्वतेजसासर्वंजगदित्यश्नःकश्विदसुरः तस्यपूर्व्याणिपुरातनानि पुराणिबलानिवा शिश्नयत् अश्नथयत् शिथिलीचकार चित्पूरणः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५