मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २०, ऋक् ६

संहिता

स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः ।
अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न् ॥

पदपाठः

सः । ह॒ । श्रु॒तः । इन्द्रः॑ । नाम॑ । दे॒वः । ऊ॒र्ध्वः । भु॒व॒त् । मनु॑षे । द॒स्मऽत॑मः ।
अव॑ । प्रि॒यम् । अ॒र्श॒सा॒नस्य॑ । स॒ह्वान् । शिरः॑ । भ॒र॒त् । दा॒सस्य॑ । स्व॒धाऽवा॑न् ॥

सायणभाष्यम्

देवोद्योतमानः श्रुतः कीर्तिमान् अतएवदस्मतमः सर्वैरतिशयेनदर्शनीयः सइन्द्रः मनुषेमनोरर्थंउ र्ध्वोभुवत् कामप्रदानेप्रवृत्तेउदङ्मुखोभवतु नामप्रसिद्धौ हेतिपूरणः तदुच्यते साह्वान् शत्रूनभिभवन् स्वधावान् बलवानिन्द्रः अर्शसानस्यलोकंबाधमानस्यदासस्यएतन्नामकस्यासुरस्यप्रियंशिरःअवभरत् अधःपातयतु हरतेर्लेट्यडागमः हृग्रहोर्भः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६