मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २०, ऋक् ७

संहिता

स वृ॑त्र॒हेन्द्र॑ः कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि ।
अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ॥

पदपाठः

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । कृ॒ष्णऽयो॑नीः । पु॒र॒म्ऽद॒रः । दासीः॑ । ऐ॒र॒य॒त् । वि ।
अज॑नयत् । मन॑वे । क्षाम् । अ॒पः । च॒ । स॒त्रा । शंस॑म् । यज॑मानस्य । तू॒तो॒त् ॥

सायणभाष्यम्

वृत्रहावृत्रस्यहन्तापुरन्दरः शंबरपुरांदारयितासइन्द्रः कृष्णयोनीर्निक्रुष्टजातीःदासीरुपक्षपयित्री रासुरीःसेनाः व्यैरयत् व्यनुदत् किञ्च मनवेमनोरर्थंक्षांप्रुथिवीमपउदकानिचअजनयत् यजमानस्यस त्रामहान्तंशंसमभिलाषंतूतोत् कामप्रदानेनपूरयतु तुव्रुद्धावितिसौत्रोधातुः शपःश्लुः तुजादित्वाद्दीर्घः यद्वा सत्रामहत् शंसंशंसनीयंशस्त्रंकामप्रदानेनवर्धयतु यद्वा कृष्णयोनीः कृष्णाख्येनासुरेणनिषिक्तरेत स्काः दासीर्भार्याव्यैरयत् व्यनुदत् तथामन्त्रः—यःकृष्णगर्भानिरहन्नृजिश्वनेति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६