मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २०, ऋक् ८

संहिता

तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेन्द्रा॑य दे॒वेभि॒रर्ण॑सातौ ।
प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत् ॥

पदपाठः

तस्मै॑ । त॒व॒स्य॑म् । अनु॑ । दा॒यि॒ । स॒त्रा । इन्द्रा॑य । दे॒वेभिः॑ । अर्ण॑ऽसातौ ।
प्रति॑ । यत् । अ॒स्य॒ । वज्र॑म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू॑न् । पुरः॑ । आय॑सीः । नि । ता॒री॒त् ॥

सायणभाष्यम्

देवेभिर्देवनशीलैः स्तोतृभिः अर्णसातौ उदकलाभेनिमित्ते तस्माइन्द्रायतवस्यंतवसे बलायहितं बलवर्धनंहविः सत्रासन्तं सर्वेष्वहस्सुअनुअनुक्रमेणसवनत्रयेदायिअदायि यद्वा तवस्यंयद्बलं प्रवृद्धाय- दीयते तत्तवस्यं देवेभिर्देवैरुदकभजने अनुक्रमेणतद्बलंतस्माइन्द्रायादायि तथामन्त्रः—अनुतेदायिमह इन्द्रियायेति । यद्यदाअस्येन्द्रस्यबाह्वोर्वज्रंप्रतिधुः स्तोतारोसुरवधसूचकेनस्तोत्रेणप्रतिनिदधुः स्तूय मानोहीन्द्रोदस्युवधार्थं वज्रमादत्ते दधुः दधातेर्लुङि गातिस्थेतिसिचोलुक् आतइतिझेर्जुस् ततस्तेन वज्रेणदस्यूनसुरान् हत्वीहत्वा तंदीयाआयसीरयोमयीः पुरोनितारीत् नितरामनाशयत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६