मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २१, ऋक् १

संहिता

वि॒श्व॒जिते॑ धन॒जिते॑ स्व॒र्जिते॑ सत्रा॒जिते॑ नृ॒जित॑ उर्वरा॒जिते॑ ।
अ॒श्व॒जिते॑ गो॒जिते॑ अ॒ब्जिते॑ भ॒रेन्द्रा॑य॒ सोमं॑ यज॒ताय॑ हर्य॒तम् ॥

पदपाठः

वि॒श्व॒ऽजिते॑ । ध॒न॒ऽजिते॑ । स्वः॒ऽजिते॑ । स॒त्रा॒ऽजिते॑ । नृ॒ऽजिते॑ । उ॒र्व॒रा॒ऽजिते॑ ।
अ॒श्व॒ऽजिते॑ । गो॒ऽजिते॑ । अ॒प्ऽजिते॑ । भ॒र॒ । इन्द्रा॑य । सोम॑म् । य॒ज॒ताय॑ । ह॒र्य॒तम् ॥

सायणभाष्यम्

हेअध्वर्यो इन्द्राय सोमंभर संपादय कीदृशायविश्वजिते सर्वस्यजेत्रे तदेवप्रपञ्चयतिधनजिते शत्रु विजयेनतदीयधनानांजेत्रे स्वर्जिते स्वर्गस्यजेत्रे अधिपतये सत्राजिते सत्रासन्ततं जयशीलायमहतोजे त्रेवा नृजिते नृणांनायकानांजेत्रे उर्वराजिते उर्वरासर्वसस्याढ्याभूः तस्याजेत्रे अश्वजिते गोजितेबले नापहृतानांगवांजेत्रे अज्निते वृत्रेणाक्रान्तानामपांजेत्रे यजताय यजनियाय तस्माइन्द्रायहर्यतं हर्यग तिकान्त्योः भृमृदुशीत्यादिनाकर्मण्यतच् कमनियं स्पृहणीयंवा सोमंभरेतिसमन्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७