मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २१, ऋक् २

संहिता

अ॒भि॒भुवे॑ऽभिभ॒ङ्गाय॑ वन्व॒तेऽषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ।
तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी॑तवे सत्रा॒साहे॒ नम॒ इन्द्रा॑य वोचत ॥

पदपाठः

अ॒भि॒ऽभुवे॑ । अ॒भि॒ऽभ॒ङ्गाय॑ । व॒न्व॒ते । अषा॑ळ्हाय । सह॑मानाय । वे॒धसे॑ ।
तु॒वि॒ऽग्रये॑ । वह्न॑ये । दु॒स्तरी॑तवे । स॒त्रा॒ऽसहे॑ । नमः॑ । इन्द्रा॑य । वो॒च॒त॒ ॥

सायणभाष्यम्

अभिभुवे सर्वस्याभिभवित्रे अभिभङ्गायअसुराणांभच्चकाय वन्वतेवनषणसंभक्तौ व्यत्ययेनउप्र- त्ययः शत्रूणांधनानांसंभक्ते अषाह्ळाय सहेःकर्मणिनिष्ठा उत्वाभावश्छान्दसः शत्रुभिरनभिभूतायस हमानायसर्वंसहायवेधसे सर्वस्यविधात्रेतुविग्रये पूर्णग्रीवाय यद्वा गॄशब्दे औणादिकः कर्मणिकप्रत्ययः तुविभिर्बहुभिःस्तोतव्यायवह्वयेसर्वस्यवोढ्रेदुष्टरीतवेअन्यैर्दुस्तरायदुर्हिंसायवासत्रासहेसर्वदाभिभवि त्रेमहतोभिभवित्रेवा एव्ंविधायेन्द्रायनमः नमः शब्दपूर्वकंस्तोत्रंवोचत हेस्तोतारोयूयंब्रूत ब्रूञोलुङि ब्रुवोवचिः अस्यतिवक्तिख्यातिभ्योङित्यङादेशः वचउमित्युम् गुणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७