मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २१, ऋक् ३

संहिता

स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः ।
वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑ ॥

पदपाठः

स॒त्रा॒ऽस॒हः । ज॒न॒ऽभ॒क्षः । ज॒न॒म्ऽस॒हः । च्यव॑नः । यु॒ध्मः । अनु॑ । जोष॑म् । उ॒क्षि॒तः ।
वृ॒त॒म्ऽच॒यः । सहु॑रिः । वि॒क्षु । आ॒रि॒तः । इन्द्र॑स्य । वो॒च॒म् । प्र । कृ॒तानि॑ । वी॒र्या॑ ॥

सायणभाष्यम्

सत्रासाहः बहूनामभिभविताजनभक्षः जनानांयजमानानांकामप्रदानेनसंभक्ता तैःसंभजनीयइति वा जनंसहःबलिनांजनानामभिभविता च्यवनःशत्रूणांच्यावयितास्वस्थानात् युध्मः योद्धा जोषमनु प्रीतिमनुउक्षितः सिक्तःसोमेन वृतंचयःवृतस्याभीष्टस्याचेतासंचेतादातेत्यर्थः यद्वा वर्ततेपुनःपुनरभि मुखमागच्छतीतिवृत् शत्रुः तंचयतेहिनस्तीतिवृतञ्चयः चयतिर्हिंसाकर्मा तथाचब्राह्मणं—योवैभागि नंभागान्नुदतेचयतेवैनंसयदिवैनंनचयतेथपुत्रमथपौत्रंचयतेत्वेवैनमिति । सहुरिः जसिसहोरुरिन्निति उरिन्प्रत्ययःअभिभविताशात्रूणांविक्षुप्रजासुआरितः पालकत्वेनप्रापितोभवति तादृशस्येन्द्रस्यक्रुतानि वृत्रहननादिरूपाणि वीर्यासामर्थ्यानिप्रवोचं प्रकर्षेणवदामि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७