मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २१, ऋक् ४

संहिता

अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग॑म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः ।
र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्र॑ः सुय॒ज्ञ उ॒षस॒ः स्व॑र्जनत् ॥

पदपाठः

अ॒न॒नु॒ऽदः । वृ॒ष॒भः । दोध॑तः । व॒धः । ग॒म्भी॒रः । ऋ॒ष्वः । अस॑मष्टऽकाव्यः ।
र॒ध्र॒ऽचो॒दः । श्नथ॑नः । वी॒ळि॒तः । पृ॒थुः । इन्द्रः॑ । सु॒ऽय॒ज्ञः । उ॒षसः॑ । स्वः॑ । ज॒न॒त् ॥

सायणभाष्यम्

अननुदः अनुपश्चाद्ददातीत्यनुदः आतश्चोपसर्गइतिकर्तरिकः सनास्तियस्यसतथोक्तः प्रभूतधनदाने नास्यसमानोनास्तीत्यर्थः अतएववृषभः कामानांवर्षितादोधतःदुधिर्हिंसाकर्मा हिंसकस्यासुरस्यवधः हन्तागंभीरः महत्त्वेनगांभीर्योपितः ऋष्वः महान् यद्वा दर्शनीयः सर्वैः असमष्टकाव्यः अशूव्याप्तौ कर्म णिनिष्ठा उदित्त्वादिड्विकल्पः नञ् समासः अन्यैख्याप्तकर्मा रध्रचोदः रधहिंसासंराध्योः रध्राणांसमृ द्धानांप्रेरकः यद्वा शत्रूणांहिंसकानांनोदकः श्नथनः शत्रूणांबलापहारेणशातयिता वीळितोदृढाङ्गः पृथुः स्वतेजसाजगद्भ्याप्यवर्तमानः सुयज्ञः सुकर्माएतादृशइन्द्रः उषसः स्वः सूर्यज्योतिः स्वःसूर्यइति हिब्राह्मणम् । सूर्यंचजनत् प्रादुश्चकार ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७