मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २१, ऋक् ५

संहिता

य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिणः॑ ।
अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इन्द्रे॑ हिन्वा॒ना द्रवि॑णान्याशत ॥

पदपाठः

य॒ज्ञेन॑ । गा॒तुम् । अ॒प्ऽतुरः॑ । वि॒वि॒द्रि॒रे॒ । धियः॑ । हि॒न्वा॒नाः । उ॒शिजः॑ । म॒नी॒षिणः॑ ।
अ॒भि॒ऽस्वरा॑ । नि॒ऽसदा॑ । गाः । अ॒व॒स्यवः॑ । इन्द्रे॑ । हि॒न्वा॒नाः । द्रवि॑णानि । आ॒श॒त॒ ॥

सायणभाष्यम्

धियोहिन्वानाः स्तुतीरिन्द्रेप्रेरयन्तः उशिजः इन्द्रंकामयमानाः मनीषिणोमेधाविनोङ्गिरसः अप्तु रः अपांप्रेरकाः इन्द्राद्गातुंगवांमार्गंयज्ञेनतपसाविविद्रिरे लेभिरे ततः अवस्यवः रक्षणमिच्छन्तः इन्द्रे गाः स्तुतीर्हिन्वानाः हिगतिवृद्भ्योः स्वादिः प्रेरयन्तः तेङ्गिरसः अभिस्वराअभितः स्वरः स्वरणंशब्द नंयस्यतेनस्तोत्रेणनिषदाउपसदनेनचद्रविणानिगोधनानिआशत आप्नुवन् अश्नोतेर्लुङि बहुलंछन्दसी तिविकरणस्यलुक् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७