मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २२, ऋक् १

संहिता

त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् ।
स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑ः ॥

पदपाठः

त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्मः॑ । तृ॒पत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ।
सः । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥

सायणभाष्यम्

गृत्समदोब्रूते महिषः महान्पूज्यः तुविशुष्मः बहुबलः तृपत् तृपप्रीणनेतुदादिः आगमानुशासन स्यानित्यत्वान्नुमभावः तृप्यन्निन्द्रः त्रिकद्रुकेषुज्योतिर्गौरायुरित्येतन्नामकेषुआभिप्लविकेष्वहस्सुसु तमभिषुतंयवाशिरंयवमयैःसक्तुभिर्मिश्रितं आङ् पूर्वस्यश्रीणातेःक्विपिअपस्पृधेथामित्यादिनाशिर इत्यादेशः तंसोमंविष्णुनासहापिबत् यथा वशत् पूर्वंयथा तं सोममकामयततथापिबत् वशकान्तौ बहुलंछन्दसीतिशपोलुगभावः पीत ससोमः महांमहान्तमुरुंतेजसाविस्तीर्णंईमेनमिन्द्रं ममादअमा दयत् किमर्थं महिमहद्वृत्रहननादिलक्षणं कर्मकर्तवेकर्तुं सत्यंयथार्थभूतः इन्दुः स्रवन् देवोदीप्यमानः ससोमः सत्यंयथार्थभूतं देवंसोमंकामयमानमेनमिन्द्रं सश्चत् सश्च्तिर्व्याप्तिकर्मा व्याप्नोतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८