मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २२, ऋक् ४

संहिता

तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तम् ।
यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः ।
भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिष॑म् ॥

पदपाठः

तव॑ । त्यत् । नर्य॑म् । नृ॒तो॒ इति॑ । अपः॑ । इ॒न्द्र॒ । प्र॒थ॒मम् । पू॒र्व्यम् । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तम् ।
यत् । दे॒वस्य॑ । शव॑सा । प्र । अरि॑णाः । असु॑म् । रि॒णन् । अ॒पः ।
भुव॑त् । विश्व॑म् । अ॒भि । अदे॑वम् । ओज॑सा । वि॒दात् । ऊर्ज॑म् । श॒तऽक्र॑तुः । वि॒दात् । इष॑म् ॥

सायणभाष्यम्

नृतोसर्वेषांनर्तयितः हेइन्द्र नर्यंनराणांहितकरंप्रथमंप्रततं प्रथमंप्रततमितियास्कः । पूर्व्यं पूर्वकाल भवंत्वयाकृतं तवत्यत् तत् अपःकर्म दिविस्वर्गलोकेप्रवाच्यंप्रकर्षेणवक्तव्यं श्लाघनीयमित्यर्थः किंतत् देवस्यविजिगीषोरसुरस्यशवसावलेनअसुंप्राणंरिणन् हिंसन् त्वंअपः तेननिरुद्धान्युदकानि प्रारिणाः प्रैरयः इतियदेतत्कर्मतत्प्रवाच्यमितिसमन्वयः परोक्षनिर्देशोवशिष्टः सइन्द्रः विश्वंव्याप्तं अदेवंतमोरू- पमसुरंओजसाबलेनअभिभुवत् अभिभवतु किञ्च शतक्रतुरिन्द्रः ऊर्जंबलंविदात् लभतु इषंहविर्लक्षण मन्नंचविदात् विदिर् लाभे शाविकरणी लेट्याडागमः ॥ ४ ॥

तृतीयेनुवाकेदशसूक्तानि तत्रेदमेकोनविंशत्यृचंगार्त्समदंप्रथमंसूक्तं अत्रेयमनुक्रमणिका गणाना मेकोनाब्राह्मणस्पत्यंहबार्हस्पत्यास्तुदृष्टलिङ्गाःपञ्चदश्यन्तेत्रिष्टुभाविति पञ्चदशीएकोनविंशीचत्रि ष्टुभौ शिष्टाजगत्यः यासुबृहस्पतिशब्दःश्रूयतेताबार्हस्पत्याः शिष्टाब्राह्मणस्पत्याः प्रवर्ग्येभिष्टवएतत्सू क्तं स्पृष्ट्वोदकमितिखण्डेसूत्रितम्—गणानांत्वाप्रथश्छयस्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८