मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १

संहिता

ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑ः सीद॒ साद॑नम् ॥

पदपाठः

ग॒णाना॑म् । त्वा॒ । ग॒णऽप॑तिम् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र॑वःऽतमम् ।
ज्ये॒ष्ठ॒ऽराज॑म् । ब्रह्म॑णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । आ । नः॒ । शृ॒ण्वन् । ऊ॒तिऽभिः॑ । सी॒द॒ । साद॑नम् ॥

सायणभाष्यम्

हेब्रह्मणस्पते ब्रह्मणोन्नस्यपरिवृढस्यकर्मणोवापतेपालयितः गणानांदेवादिगणानांसंबन्धिनंगण- पतिंस्वीयानांपतिंकवीनांक्रान्तदर्शिनांकविंउपमश्रवस्तमं उपमीयतेनयेत्युपमा सर्वेषामन्नानामुपमा नं श्रवोन्नंयस्यसतथोक्तः अतिशयेनोपमश्रवाः उपमश्रवस्तमः माङ् माने आतश्चोपसर्गे करणेअङ्प्रत्य यः ङ्यापोःसंज्ञाछन्दसोरितिह्रस्वत्वम् ज्येष्ठराजं ज्येष्ठाःप्रशस्यतमाः तेषांमध्येराजन्तं ब्रह्मणांमन्त्रणां स्वामिनंत्वात्वांहवामहे अस्मिन्कर्मण्याह्वयामः किञ्च नोस्माकं स्तुतीः आशृण्वन् त्वंऊतिभिः पाल नैर्हेतुभूतैः सादनंसीदंत्यस्मिन्नितिसदनंयज्ञगृहमासीदोपविश ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९