मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् ३

संहिता

आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि ।
बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विद॑म् ॥

पदपाठः

आ । वि॒ऽबाध्य॑ । प॒रि॒ऽरपः॑ । तमां॑सि । च॒ । ज्योति॑ष्मन्त॑म् । रथ॑म् । ऋ॒तस्य॑ । ति॒ष्ठ॒सि॒ ।
बृह॑स्पते । भी॒मम् । अ॒मि॒त्र॒ऽदम्भ॑नम् । र॒क्षः॒ऽहन॑म् । गो॒त्र॒ऽभिद॑म् । स्वः॒ऽविद॑म् ॥

सायणभाष्यम्

हेबृहस्पते परिरपः परितःरपःपापरूपंरक्षः यद्वा रपलपव्यक्तायांवाचि क्विप् परिवदतोनिन्दकान् तमांसिचविबाध्यतेज्सानिराकृत्य ज्योतिष्मंतंज्योतिषातद्वन्तं ऋतस्ययज्ञस्यप्रापकं भीमंशत्रूणांभयं करं अमित्रदंभनं शत्रूणां हिंसकं तदेवाह रक्षोहणं रक्षसांहन्तारं गोत्रभिदं मेघानांभेत्तारं स्वर्विदं स्वर्गस्यलंभकंरथमातिष्ठसि अधितिष्ठसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९