मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् ४

संहिता

सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् ।
ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते॑ महित्व॒नम् ॥

पदपाठः

सु॒नी॒तिऽभिः॑ । न॒य॒सि॒ । त्राय॑से । जन॑म् । यः । तुभ्य॑म् । दाशा॑त् । न । तम् । अंहः॑ । अ॒श्न॒व॒त् ।
ब्र॒ह्म॒ऽद्विषः॑ । तप॑नः । म॒न्यु॒ऽमीः । अ॒सि॒ । बृह॑स्पते । महि॑ । तत् । ते॒ । म॒हि॒ऽत्व॒नम् ॥

सायणभाष्यम्

हेबृहस्पते सुनीतिभिः शोभनानीतयोतेसुनीतयः सन्मार्गाःतैर्जनंनयसि अपेक्षितफलंप्रापयसि त्रायसेजनमापद्भ्योरक्षसिच किञ्च योयजमानःतुभ्यं हविर्लक्षणमन्नंदाशात् प्रयच्छेत् दाश्रृदाने लेट्या डागमः तमंहः पापंपापरूपदारिद्र्यं वानाश्नवत् नप्राप्नुयात् अश्नोतेर्लेटिव्यत्ययेनपरस्मैपदं अडागमः ब्रह्मद्विषः ब्राह्मणानांमन्त्रणांवाद्वेष्टुः तपनः तापकोसि किञ्च मन्युमीः मन्योःक्रोधस्यपरेषांज्ञानस्य वाहिंसकोसि मीङ् हिंसायां क्विप् तेतवतत्तादृशं महिमहत्प्रभूतं महित्वनं माहात्म्यमस्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९