मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् ६

संहिता

त्वं नो॑ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे ।
बृह॑स्पते॒ यो नो॑ अ॒भि ह्वरो॑ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥

पदपाठः

त्वम् । नः॒ । गो॒पाः । प॒थि॒ऽकृत् । वि॒ऽच॒क्ष॒णः । तव॑ । व्र॒ताय॑ । म॒तिऽभिः॑ । ज॒रा॒म॒हे॒ ।
बृह॑स्पते । यः । नः॒ । अ॒भि । ह्वरः॑ । द॒धे । स्वा । तम् । म॒र्म॒र्तु॒ । दु॒च्छुना॑ । हर॑स्वती ॥

सायणभाष्यम्

हेबृहस्पते त्वंनोस्माकं गोपाः पालयिता पथिकृत्सन्मार्गकृच्चभवसि विचक्षणः विशेषेण द्रष्टासर्व ज्ञस्त्वं तवव्रतायत्वत्संबन्धिनेयज्ञाय मतिभिःस्तोत्रैःजरामहे स्तुमः जरतिःस्तुतिकर्मा यःपुमान्नोस्मा नभिअभिलक्ष्यह्वरः ह्वृकौटिल्येभावेअसुन् कौटिल्यंदधेविदधाति तंस्वावीयादुच्छुनादुर्बुद्धिः हरस्व ती वेगवतीसती मर्मर्तु मारयतु मृङ्प्राणत्यागे अन्तर्भावितण्यर्थस्य यङ्लुकिलोटिरूपम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०