मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् ७

संहिता

उ॒त वा॒ यो नो॑ म॒र्चया॒दना॑गसोऽराती॒वा मर्त॑ः सानु॒को वृकः॑ ।
बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो॑ अ॒स्यै दे॒ववी॑तये कृधि ॥

पदपाठः

उ॒त । वा॒ । यः । नः॒ । म॒र्चया॑त् । अना॑गसः । अ॒रा॒ति॒ऽवा । मर्तः॑ । सा॒नु॒कः । वृकः॑ ।
बृह॑स्पते । अप॑ । तम् । व॒र्त॒य॒ । प॒थः । सु॒ऽगम् । नः॒ । अ॒स्यै । दे॒वऽवी॑तये । कृ॒धि॒ ॥

सायणभाष्यम्

उतवाअपिचहेबृहस्पते अरातीवाअभिमुख्मागमनवान् सानुकः समुच्छ्रितः सानुसमुच्छ्रितमिति यास्कः । वृकः वृकआदाने धनादीनामादाता योमर्तोमनुष्यः अनागसोपराधहीनान्नोस्मान्मर्चयात् मर्चयतिर्हिसाकर्मा हिंस्यात् तंमर्तं पथोवैदिकान्मार्गादपवर्तय निवर्तय नोस्माकं अस्यैदेववीतये देवानांवीतिंसोमभक्षणमर्चयतीतिदेववीतिर्यज्ञः अस्यै देववीतयेअस्मै यज्ञायनोस्माकंसुगंसुष्ठुगन्त- व्यंमार्गंकृधिकुरु यज्ञानुष्ठानायसुमतिंदेहीत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०