मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् ८

संहिता

त्रा॒तारं॑ त्वा त॒नूनां॑ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् ।
बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ॥

पदपाठः

त्रा॒तार॑म् । त्वा॒ । त॒नूना॑म् । ह॒वा॒म॒हे॒ । अव॑ऽस्पर्तः । अ॒धि॒ऽव॒क्तार॑म् । अ॒स्म॒युम् ।
बृह॑स्पते । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । मा । दुः॒ऽएवाः॑ । उत्ऽत॑रम् । सु॒म्नम् । उत् । न॒श॒न् ॥

सायणभाष्यम्

अवस्पर्तः उपद्रवेभ्यः पारयितः यद्वा अवसारक्षणेनआपद्भ्यः पारयितः हेबृहस्पते तनूनामङ्गानां पुत्रादीनांवात्रातारंपालयिता धिवक्तारं अस्मासुपक्षपातेनअधिकंवक्तारं अस्मयुं हविःप्रदानस्मान् कामयमानं त्वात्वांहवामहे अस्मिन्कर्मणिआह्वयामः किञ्च देवनिदोदेवनिन्दकानसुरान्निबर्हय विना शय दुरेवाः दुष्टगमनादुर्बुद्धयः शत्रवः उत्तरंउत्कृष्टतरं सुम्नंसुखंमाउन्नशन् माव्याप्नुवन्तु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०