त्वया॑ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।
या नो॑ दू॒रे त॒ळितो॒ या अरा॑तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता अ॑न॒प्नसः॑ ॥
त्वया॑ । व॒यम् । सु॒ऽवृधा॑ । ब्र॒ह्म॒णः॒ । प॒ते॒ । स्पा॒र्हा । वसु॑ । म॒नु॒ष्या॑ । आ । द॒दी॒म॒हि॒ ।
याः । नः॒ । दू॒रे । त॒ळितः॑ । याः । अरा॑तयः । अ॒भि । सन्ति॑ । ज॒म्भय॑ । ताः । अ॒न॒प्नसः॑ ॥
हेब्रह्मणस्पते सुवृधासुष्ठुवर्धयित्रा त्वयाहेतुनावयं स्पार्हास्पृहणीयानिवसुधनानिमनुष्या सुपांसु लुगितिचतुर्थीबहुवचनस्याकारः मनुष्येभ्योदातृभ्यः आददीमहि गृह्णीमहि आङोदोनास्यविहरणे इत्यात्मनेपदम् दूरेदूरदेशेयाअरातयः याश्चतळितोन्तिकेअरातयः नोस्मानभिसन्ति अभिभवन्ति अनप्रसः कर्महीनान् ताः अरातीः तान् शत्रून् जंभय नाशय जभिनाशनेचुरादिः अत्रनिरुक्तम्—त्व यावयंसुवर्धयित्राब्रह्मणस्पतेस्पृहणीयानिवसूनिमनुष्येभ्यआददीमहियाश्चनोदूरेतळितोयाश्चान्ति केरातयोदानकर्माणोवादानप्रज्ञावाजंभयताअनप्रसोप्रइतिरूपनामेति ॥ ९ ॥