मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १०

संहिता

त्वया॑ व॒यमु॑त्त॒मं धी॑महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा ।
मा नो॑ दु॒ःशंसो॑ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा॑ म॒तिभि॑स्तारिषीमहि ॥

पदपाठः

त्वया॑ । व॒यम् । उ॒त्ऽत॒मम् । धी॒म॒हे॒ । वयः॑ । बृह॑स्पते । पप्रि॑णा । सस्नि॑ना । यु॒जा ।
मा । नः॒ । दुः॒ऽशंसः॑ । अ॒भि॒ऽदि॒प्सुः । ई॒श॒त॒ । प्र । सु॒ऽशंसाः॑ । म॒तिऽभिः॑ । ता॒रि॒षी॒म॒हि॒ ॥

सायणभाष्यम्

हेबृहस्पते पप्रिणा पॄपालनपूरणयोः आदृगमहनेतिकिन्प्रत्ययः छान्दसोयणादेशः कामानांपूरके ण सस्निनाशुद्धेनयुजासहायेनत्वयाहेतुनाउत्तमंवयोहविर्लक्षणमन्नंवयंधीमहे धारयामः धीधारणे दैवा दिकः दुःशंसःदुःशंसनीयः अभिदिप्सुः अभिदंभितुंअभिभवितुमिच्छुः पुरुषः नोस्माकंमाईशत मा ई- शिष्ट ईश्वरोमाभवतु ईशऎशर्येलेट्यडागमः वयंमतिभिः स्तोत्रैः सुशंसाः शोभनशंसनोपेताः सन्तः प्रातरिषीमहि प्रकर्षेणवर्धेमहि ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०