मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १३

संहिता

भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे॑षु॒ सनि॑ता॒ धनं॑धनम् ।
विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॒॑ मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ॑ इव ॥

पदपाठः

भरे॑षु । हव्य॑ । नम॑सा । उ॒प॒ऽसद्यः॑ । गन्ता॑ । वाजे॑षु । सनि॑ता । धन॑म्ऽधनम् ।
विश्वाः॑ । इत् । अ॒र्यः । अ॒भि॒ऽदि॒प्स्वः॑ । मृधः॑ । बृह॒स्पतिः॑ । वि । व॒व॒र्ह॒ । रथा॑न्ऽइव ॥

सायणभाष्यम्

सबृहस्पतिः भरेषुङ्ग्रामेषुहव्यः योद्धृभिःस्वरक्षणार्थमाह्वातव्यः नमसोपसद्यः सर्वैर्नमसोपसद नीयः किञ्च वाजेषुगन्तासंग्रामेषुरक्षार्थंगमनशीलः तथाधनंधनंसनितासंभक्तादातावा तृन्नन्तत्वात्ष ष्ठीप्रतिषेधः तथाअर्थः स्वामीबृहस्पतिः अभिदिप्स्वः अभिभवनेच्छावतीः विश्वाइत् सर्वाएवमृधः हिंसकाः सेनारथानिवयुद्धेवेगेनपरकीयान् रथानिवविववर्ह विशेषेण थिथिलीचकार यद्वा इवशब्दा श्चार्थे रथांश्चविववर्ह लडर्थेलिट् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१