मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १४

संहिता

तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा॑ नि॒दे द॑धि॒रे दृ॒ष्टवी॑र्यम् ।
आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्यं१॒॑ बृह॑स्पते॒ वि प॑रि॒रापो॑ अर्दय ॥

पदपाठः

तेजि॑ष्ठया । त॒प॒नी । र॒क्षसः॑ । त॒प॒ । ये । त्वा॒ । नि॒दे । द॒धि॒रे । दृ॒ष्टऽवी॑र्यम् ।
आ॒विः । तत् । कृ॒ष्व॒ । यत् । अस॑त् । ते॒ । उ॒क्थ्य॑म् । बृह॑स्पते । वि । प॒रि॒ऽरपः॑ । अ॒र्द॒य॒ ॥

सायणभाष्यम्

हेबृहस्पते तेजिष्ठयातिशयेनतिग्मया तपनीतापकारिण्यहेत्यारक्षसोराक्षसांस्तप तापय येरा क्षसाः दृष्टवीर्यंयुद्धेषुदृष्टपराक्रमं त्वात्वांनिदेनिन्दायाविषयंदधिरे कृतवन्तः तान् तापयेतिसमन्वयः तेतवउक्थ्यंसर्वैःप्रशंसनीयंयद्वीर्यमसत्पूर्वमासीत् तदधुनाआविष्कृष्व प्रकटीकुरु तेनचवीर्येणपरि रापः परिवदतोनिन्द्रकानसुरान् व्यर्दय विशेषेणबाधस्व ॥ १४ ॥ बार्हस्पत्येपशौएषाहविषोनुवाक्या प्रदानानामितिखण्डेसूत्रितम्—बृहस्पतेअतियदर्थोअर्हात्त म्रुत्वियाउपवाचःसचन्तइति एषैवाश्विनशस्त्रेपरिधानीया सूत्रितञ्च—बृहस्पतेअतियदर्योअर्हादिति परिधानीयेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१