मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १५

संहिता

बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥

पदपाठः

बृह॑स्पते । अति॑ । यत् । अ॒र्यः । अर्हा॑त् । द्यु॒ऽमत् । वि॒ऽभाति॑ । क्रतु॑ऽमत् । जने॑षु ।
यत् । दी॒दय॑त् । शव॑सा । ऋ॒त॒ऽप्र॒जा॒त॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥

सायणभाष्यम्

ऋतप्रजात सत्येनोत्पन्नहेबृहस्पते अर्यःश्रेष्ठोब्राह्मणः सर्वान्कामानतिअतीत्ययद्ब्रह्मवर्चसं तेजः अर्हत्पूजयेत् अर्हपूजायां लेट्याडागमः जनेषुब्राह्मणेषुद्युमत् दीप्तियुक्तंक्रतुमत् ज्ञानोपेतंयद्ब्रह्मवर्चसं विभाति विशेषेणदीप्यते यच्चशवसाबलेनस्वाश्रयंजनंदीदयत् दीदयतिर्दीप्तिकर्मा दीपयति चित्रंचाय नीय्ंतद्ब्रह्मवर्चसरूपंद्रविणंअस्मासुधेहिनिधेहि यद्वा अर्यउदारोपि त्वयादत्तंधनंअतीवार्हात् श्रद्द- धीत यच्चत्वद्दत्तंधनंजनेषुतवस्तोत्रंकुर्वाणेषुदीप्तियुक्तंकर्मसाधनंचविभाति यच्चधनं शवसान्नादिसमृ द्भ्यादीयत् स्वाश्रयंदीपयति तादृशं धनमस्मासुधेहि तथाच ब्राह्मणम्—बृहस्पतेअतियदर्योअर्हादित्ये तयापरिदध्यात्तेजस्कामोब्रह्मवर्चसकामोतीववान्यान्ब्रह्म्वर्चसमर्हतिद्युमदितिद्युमदिवविब्रह्मवर्चसं विभातीतिवीववैब्रह्मवर्चसंभातियद्दीद्यच्छवसऋतप्रजातेतिदीदायेववैब्रह्मवर्चसंतदस्मासुद्रविणंधेहि चित्रमितिचित्रमिववैब्रह्मवर्चसंब्रह्मवर्चसीब्रह्मयशसीभवतीति ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१