मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १६

संहिता

मा नः॑ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो॑ रि॒पवोऽन्ने॑षु जागृ॒धुः ।
आ दे॒वाना॒मोह॑ते॒ वि व्रयो॑ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो॑ विदुः ॥

पदपाठः

मा । नः॒ । स्ते॒नेभ्यः॑ । ये । अ॒भि । द्रु॒हः । प॒दे । नि॒रा॒मिणः॑ । रि॒पवः॑ । अन्ने॑षु । ज॒गृ॒धुः ।
आ । दे॒वाना॑म् । ओह॑ते । वि । व्रयः॑ । हृ॒दि । बृह॑स्पते । न । प॒रः । साम्नः॑ । वि॒दुः॒ ॥

सायणभाष्यम्

हेबृह्स्प्ते नोस्मान् स्तेनेभ्यः स्त्यानमस्तियेषुइतिस्तेनाश्चौराः तेभ्योमादाः तान् दर्शयति येचौरा द्रुहः प्राणद्रोहस्यपदेस्थानेनिरामिणः नितरांरमणशीलाः रिपवः हिंसकाःसन्तः अन्नेषुपरकीयेषु अभि जागृधुः अभिकांक्षन्ति गृधुअभिकांक्षायां लिटिरूपं येचदेवानांविव्रयः विविशेषेणवर्जनं व्रीव्लीइति धातूवर्जनेवर्तेते यएवंविद्वान्दक्षिणांप्रतिगृह्णातिनैनंदक्षिणाव्लीनातीतिएकस्यवर्जनार्थेदृष्टत्वादपर स्यापिवर्जनार्थत्वम् तत् हृदिस्वकीयेहृदयेआओहतेआवहन्ति देवानांयागान्स्तुतींश्चनकरवामेतिमन्य न्तइतियावत् तेभ्योस्मान्मादाइतिसमन्वयः येपुमांसः साम्नः साममयात्त्वत्तः परः परस्तादन्यदुत्कृष्टं सामयद्रक्षोघ्रं सामवैरक्षोहमितिश्रुतेः । नविदुर्नजानन्ति किन्तु सर्वसाधकंसामत्वामेवविदुषोस्मान् स्तेनेभ्योमादाः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२